(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.98. अध्यायः 098
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति अर्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवानामजय्यत्वमभिधाय शिखण्डिवर्जं पाञ्चालादिवधप्रतिज्ञा ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-98-0x(4185)(43178)
वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः ।
नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि ॥ 6-98-1(43179)
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः ।
श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया ॥ 6-98-2(43180)
उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत।
सदेवासुरगन्धर्वं लोकं काल इवापरः ॥ 6-98-3(43181)
अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः।
किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि ॥ 6-98-4(43182)
घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् ।
जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया ॥ 6-98-5(43183)
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् ।
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥ 6-98-6(43184)
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा ।
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥ 6-98-7(43185)
द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो ।
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥ 6-98-8(43186)
यच्च नः सहितान्सर्वान्विराटनगरे तदा ।
एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम् ॥ 6-98-9(43187)
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे।
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥ 6-98-10(43188)
तथा द्रौणिं महेष्वासं शारद्वतमथापि च ।
गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम् ॥ 6-98-11(43189)
विजित्य च यदा कर्णं सदा पुरुषमानिनम् ।
उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम् ॥ 6-98-12(43190)
निवातकवचान्युद्धे वासवेनापि दुर्जयान्।
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥ 6-98-13(43191)
को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा।
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः ॥ 6-98-14(43192)
वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः ।
सर्वेश्वरो देवदेवः परमात्मा सनातनः ॥ 6-98-15(43193)
उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः ।
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥ 6-98-16(43194)
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्।
तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥ 6-98-17(43195)
स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः ।
युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव।
`अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥' 6-98-18(43196)
अहं तु सोमकान्सर्वान्पाञ्चालांश्च समागतान्।
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥ 6-98-19(43197)
तैर्वाऽहं निहतः सङ्ख्ये गमिष्ये यमसादनम् ।
तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव ॥ 6-98-20(43198)
पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि ।
वरदानात्पुमाञ्जातः सैषा वे स्त्री शिखण्डिनी ॥ 6-98-21(43199)
तमहं न हनिष्यामि प्राणत्यागेऽपि भारत।
याऽसौ प्राङ्वर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी॥ 6-98-22(43200)
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्।
यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥ 6-98-23(43201)
सञ्जय उवाच। 6-98-24x(4186)
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर।
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥ 6-98-24(43202)
आगम्य तु ततो राजा विसृज्य च महाजनम् ।
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः ॥ 6-98-25(43203)
प्रहृष्टः स निशां तां च गमयामास पार्थिवः।
प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः ॥ 6-98-26(43204)
राज्ञः समाज्ञापयत सेनां योजयतेति ह।
अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान् ॥ 6-98-27(43205)
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु।
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ 6-98-28(43206)
निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् ।
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥ 6-98-29(43207)
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।
दुर्योधनो महाराज दुःशासनमचोदयत् ॥ 6-98-30(43208)
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय ॥ 6-98-31(43209)
अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥ 6-98-32(43210)
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्।
स नो गुप्तः सहायः स्याद्धन्यात्पार्थांश्च संयुगे ॥ 6-98-33(43211)
अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।
स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे ॥ 6-98-34(43212)
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ 6-98-35(43213)
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन ।
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 6-98-36(43214)
अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः।
उद्योगे कथितं सर्वं यथा जाता शिखण्डिनी ॥ 6-98-37(43215)
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत ।
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ॥ 6-98-38(43216)
युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः ।
सर्वानन्यान्हनिष्यामि संप्राप्तान्रणमूर्धनि ॥ 6-98-39(43217)
एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् ।
तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम् ॥ 6-98-40(43218)
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाहवे ।
मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना ॥ 6-98-41(43219)
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः।
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ 6-98-42(43220)
एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा ।
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ 6-98-43(43221)
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ 6-98-44(43222)
ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः ।
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ 6-98-45(43223)
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्।
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ 6-98-46(43224)
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्।
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ 6-98-47(43225)
रक्ष्यमाणः स पार्थेन तथास्माभिर्विवर्जितः ।
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ 6-98-48(43226)
सञ्जय उवाच। 6-98-49x(4187)
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 6-98-49(43227)
भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्।
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ 6-98-50(43228)
शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप।
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताऽहमित्युत ॥ ॥ 6-98-51(43229)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-98-25 महाजनं जनसमूहम् । क्षयं गृहम् ॥ 6-98-28 प्रत्यादेशं निराकरम् ॥ 6-98-29 निर्वेदं खेदम् ॥ 6-98-37 उद्योगे युद्धात्प्राक् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.